NIOS Class 10th Sanskrit (246): NIOS TMA Solution

NIOS Solved TMA 2024

निर्देशा :
(i) सर्वे प्रश्ना : अनिवार्याः । प्रश्नानुसारम् अङ्काः समक्षे निर्देशिताः ।
(ii) उत्तरपुस्तिकायाः प्रथमपृष्ठे सव्नाम, अनुकमांकसंख्या, शिक्षणकेन्द्रस्य इति सर्वं लेखनियम।

1. कस्यचिदेकस्य प्रश्नस्य उत्तरम् 40-60 शब्देषु लिखत-

(क) संज्ञाविषये लघुटिप्पणी लेख्या।

उत्तर– वयं प्रतिदिनम् बहूनाम् वस्तूनाम् व्यक्तीनाम् वा व्यवहारम् कुर्मः, अर्थात् वाणीद्वारा प्रकटन कुर्मः । एतद् वस्तु लौकिकम् भवति । एकः अपरस्मै किमपि वदति तदा वस्तूनाम् व्यक्तीनाम् नाम व्यवहरति वदति, उच्चरति । नाम नास्ति चेद् वाचिकव्यवहारः नैव सम्भवति । व्यवहारे स्थितानि वस्तूनि स्थिताः व्यक्तयः वा अर्थाः इति कथ्यन्ते । अर्थस्य किमपि नाम भवति । नाम किमपि पदम् भवति ।

(ख) संस्कृते कति वर्णाः सन्ति के च ते? लिखत।

उत्तर- वस्तुतः संस्कृते निम्नाः ६३ वर्णाः सन्ति ।

अ आ अ३ इ ई इ३ उ ऊ उ३ ऋऋऋ लृ ३ ए ए३ ऐ ऐ३ ओ ओ३ औ और (२२)

क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म (२५)

ययँ र ललवश ष स ह (११)

ळ, अनुस्वारः, विसर्गः, द्वौ जिह्वामूलीयौ द्वौ उपध्मानीयाँ (७)

२२+२५+११+७=६३

वर्णानाम् इतोऽपि सविस्तरं परिचयः अधस्तात् उपन्यस्यते ।

स्वराः अ आ इ ई उ ऊ ऋ ऋलू ए ऐ ओ औ (अं अः अनुस्वार विसर्गो)

2. कस्यचिदेकस्य प्रश्नस्य उत्तरम् 40-60 शब्देषु लिखत-

(क) ‘वान्तो यि प्रत्तये’ इति सूत्रे तदादिविधिं प्रदर्शयत।

उत्तर- सूत्रव्याख्या विधिसूत्रमिदम् । अस्मिन् त्रीणि पदानि सन्ति। वान्तः यि प्रत्यये इति सूत्रगतपदच्छेदः। वः (वकारः । अन्ते यस्य स वान्तः इति बहुव्रीहिसमासः । यि (७/१), प्रत्यये (७/१) । यि प्रत्यये इति पदद्वयं सप्तम्यन्तमस्ति । तयोः यि इति अल् बोधकमस्ति । अतः तदादिविधिः भवति । तेन अर्थः लभ्यते यकारादौ प्रत्यये इति । सुत्रार्थो भवति यकारादौ प्रत्यये परे ओदौतोः अव आव एतौ स्तः ।

(ख) रामशब्दस्य रूपसिद्धिं लिखत।

उत्तर- रामशब्दः पुंलिङ्गे अस्ति। रामशब्दस्य द्वितीयाबहुवचने राम अस् इत्यत्र अकारस्य पूर्वसवर्णदीर्घः जातः । तस्मात् अनेन सूत्रेण सकारस्य नकारादेशे रामान् इति जातम्। ततः अग्रिमं सूत्रं प्रवर्तते-

3. कस्यचिदेकस्य प्रश्नस्य उत्तरम् 40-60 शब्देषु लिखत-

(क) ‘बहुवचने झल्येत’ इत्यस्य सुत्रार्थ लिखत।

उत्तर- सुत्रार्थ झलादौ बहुवचने सुपि परे अतोऽङ्गस्यैकारः भवति ।

सूत्रव्याख्या- इदं विधिसूत्रम् । अस्मिन् सूत्रे पदत्रयं विद्यते। बहुवचने झलि एत् इति सूत्रगतपदच्छेदः। बहुवचने इति सप्तम्येकवचनान्तं पदम् । झलि इत्यपि सप्तम्येकवचनान्तं पदम् । झल्प्रत्याहारे परे इत्यर्थः। एत् इति प्रथमैकवचनान्तं पदम् । एदित्यनेन ह्रस्वैकारस्य एव ग्रहणम्। अतो दीर्घा यञिइत्यस्मात् सूत्रात् अतः इति षष्ठ्यन्तं पदम् अनुवर्तते । सुपि च इत्यस्मात् सूत्रात् सुपि इति सप्तम्यन्तं पदम् अनुवर्तते। अङ्गस्य इत्यधिक्रियते। अतः यञि सुपि अङ्गस्य बहुवचने झलि एत् इति पदयोजना ।

अतः इति अङ्गविशेषणम्। तेन तदन्तविधिना अदन्तस्य अङ्गस्य इत्यर्थो लभ्यते। अङ्गस्य इत्यत्र स्थानेषष्ठी अस्ति। अतः अलोऽन्त्यस्य इति परिभाषया अन्त्यस्य अलः इत्यर्थलाभः। झलीत्यनेन सुपीति विशिष्यते। तेन तदादिविधिना झलादौ सुपि इत्यर्थो लभ्यते। तेन अस्य सूत्रस्य झलादों बहुवचने सुपि परे अदन्तस्य अङ्गस्य अन्त्यस्य अलः एकारः स्याद इत्यर्थो लभ्यते । अर्थात् बहुवचने विद्यमानः यः सुप्प्रत्ययः स यदि झलादिः स्यात् तर्हि तस्मिन् परे अदन्तस्य अङ्गस्य अन्त्यस्य अलः अतः एकारादेशः स्यात् ।

(ख) ‘डसिङसोश्च’ इति सुत्रस्य अर्थ लिखत।

उत्तर- सुत्रार्थ एडो ङसिङसोरति परे पूर्वरूपमेकादेशः स्याद् ।

सूत्रव्याख्या– इदं विधिसूत्रम् । ङसिङसोः च इति सूत्रगतपदच्छेदः । ङसिङसोः इति षष्ठीद्विवचनान्तं पदम् । डसिश्च डस् च इति ङसिङसौ इतरेतरयोगद्वन्द्वः, तयोः ङसिङसोः। चेति अव्ययपदम् । एङः पदान्तादति इत्यस्मात् सूत्रात् एङः इति पञ्चम्यन्तं पदम् अति इति सप्तम्यन्तं पदं चानुवर्तते। अमि पूर्वः इत्यस्मात् सूत्रात् पूर्वः इति प्रथमान्तं पदम् अनुवर्तते ।

एकः पूर्वपरयोः इत्यधिक्रियते। एङः ङसिङसोः पूर्वपरयोः एकः पूर्वः च अति इति पदयोजना। एङः इत्यत्र एङ् इति प्रत्याहारस्य वाचकः। अति इत्यस्य हस्ते अकारे परे इत्यर्थः। एवञ्च अस्य सूत्रस्य अर्थः भवति एङः ङसिङसोः अकारे परे पूर्वरूपम् एकादेशः भवति इति ।

4. कस्यचिदेकस्य प्रश्नस्य उत्तरम् 100-150 शब्देषु लिखत-

(क) कारकस्य किं लक्षणम्। कति कारकाणि भवन्तिः लिखत

उत्तर- कृञ इति धातोः ण्वुल्तृचौ (३.१.१३३) इति सूत्रेण कर्त्तरि अर्थे ण्डुल् प्रत्यये अनुबन्धलोपे कृ वु इति स्थितौ युवोरनाक इति सूत्रेण व इत्यस्य स्थाने अक इत्यादेशे अचो णिति (७.२.११५) इति सूत्रेण ऋकारस्य स्थाने आर् इति वृद्धौ सत्यां कारक इति शब्दः सिध्यति । अस्य कारकशब्दस्यार्थो भवति करोति इति । करोति इति पदस्य चात्र जनयति इत्यर्थो भवति। एवञ्च यत् करोति जनयति तत् कारकम् इत्युच्यते। तत्र कि जनयति इति जिज्ञासायां क्रियामिति पदमध्याहियते, ततश्च यत् क्रियां जनयति तत् कारकमित्युच्यते, अर्थात् यत् क्रियाजनकं तत्कारकम् । एवञ्च क्रियाजनकत्वं कारकत्वम् इति कारकस्य लक्षणं भवति ।

तत्र जनकत्वं नाम कारणत्वं ततश्व क्रियाकारणत्वं कारकत्वमिति लक्षणं फलति। कारणत्वं च कार्यनियतपूर्ववृत्तित्वम् । एवञ्च क्रियानियतपूर्ववृत्तित्वं कारकत्वमिति कारकस्य निष्कृष्टं लक्षणं सिध्यति । तानि च कारकाणि कर्ता कर्म करणं सम्प्रदानम् अपादानम् अधिकरणम् इत्येतानि षट् सन्ति ।

(ख) ‘तथायुक्तं चानीप्सितम् इति सूत्रम् उदाहरण साहितं व्याख्यायत।

उत्तर- सूत्रार्थः कर्तृवृत्तिव्यापारजन्यफलाश्रयभूतं द्वेष्यम् उदासीनं वा कारकसंज्ञ सत् कर्मसंज्ञ भवति ।

सूत्रव्याख्या- इदं संज्ञासूत्रम् । इदं सूत्रं कारकसंज्ञां कर्मसंज्ञां च करोति । सूत्रेऽस्मिन् त्रीणि पदानि सन्ति । तथायुक्तम् इति प्रथमैकवचनान्तं पदम्। च इति अव्ययपदम्। अनीप्सितम् इति प्रथमैकवचनान्तं पदम् । कर्तुरीप्सिततमं कर्म इति सूत्रात् कर्म इति प्रथमान्तम् पदमत्र अनुवर्तते। कारकम् इति अधिकारः अत्र आगच्छति । अत्र तथायुक्तमित्यस्य कर्तृवृत्तिव्यापारजन्यफलाश्रयः इत्यर्थः । अनीप्सितमित्यस्य द्वेष्यम् उदासीनं चार्थः ।

सूत्रार्थविचारः – तथायुक्तम् अनीप्सतं च कारकं कर्मसंज्ञं भवति इति वाक्ययोजना । तत्र तथायुक्तमित्यस्य कर्तृवृत्तिव्यापारजन्यफलाश्रयः इत्यर्थः । अनीप्सितमित्यस्य द्वेष्यम् उदासीनं वार्थो वर्तते। एवञ्च सूत्रार्थो भवति कर्तृवृत्तिव्यापारजन्यफलाश्रयभूतं द्वेष्यम् उदासीनं वा कारकसंज्ञं सत् कर्मसंशं भवति ।

उदाहरणम् – चैत्रः ग्रामं गच्छन् तृणं स्पृशति । मैत्रः ओदनं भुञ्जानो विषं भुङ्क्ते ।

5. कस्यचिदेकस्य प्रश्नस्य उत्तरम् 100-150 शब्देषु लिखत-

(क) गुरुः शिष्यं धर्म ब्रूते’ इति वाक्यस्य सिद्धिप्रक्रियां लिखत ।

उत्तर- गुरुः शिष्यं धर्मं ब्रूते। अत्र वाक्ये ब्रूग्धातोः प्रयोगः अस्ति। गुरुः कर्ता अस्ति। धर्मः मुख्यकर्म अस्ति । शिष्यः गौणकर्म अस्ति । इति वाक्यस्य स्थितिः। गौणकर्म एवैतत्सूत्रस्य लक्ष्यं भवति । अतः तत्रैव सूत्रार्थस्य समन्वयः प्रस्तूयते ।

तथाहि – अत्र ब्रूग्धातोः बोधनानुकूलव्यापारः अर्थः । एतादृशव्यापाराश्रयः गुरुः अस्ति। अतः सः कर्ता । बोधरूपफलाश्रयत्वात् धर्मस्य कर्तुरीप्सिततमं कर्म इति सूत्रेण कर्मसंज्ञा भवति । गुरुः शिष्यं कर्मणा धर्मेण सम्बन्धुम् इच्छति । अतः शिष्यस्य कर्मणा यमभिप्रैति स सम्प्रदानम् इति सूत्रेण सम्प्रदानसंज्ञा प्राप्ता । किन्तु यदा सम्प्रदानत्वेन अविवक्षा क्रियते तदा स सम्प्रदानत्वेन रूपेण अविवक्षितः भवति । अपि च स धर्मरूपमुख्यकर्मणा सह सम्बद्धः अपि अस्ति। अतस्तस्य शिष्यस्य अकथितं चेति प्रकृतसूत्रेण कर्मसंज्ञा भूत्वा कर्मणि द्वितीया इति सूत्रेण द्वितीया भवति ततश्च गुरुः शिष्यं धर्मं ब्रूते इति प्रयोगः सिध्यति।

(ख) ‘अकथितं च’ इति सूत्रम् उदाहरण साहितं व्याख्यायत ।

उत्तर- सूत्रार्थः – अपादानत्वादिविशेषरूपेण अविवक्षितं दुह्यादिषोडशधातुवाच्यक्रियायाः मुख्यकर्मणा सह सम्बद्धं यत् तत्कारकसंज्ञं सत् कर्मसंज्ञं भवति ।

सूत्रव्याख्या- इदं संज्ञासूत्रम् इदं सूत्रं कारकसंज्ञां कर्मसंज्ञां च करोति । सूत्रेऽस्मिन् द्वे पदे स्तः । अकथितम् इति प्रथमैकवचनान्तं पदम् । च इति अव्ययपदम् कारकम् इति अधिकृतम्। अकथितमित्यस्य अविवक्षितमित्यर्थः ।

उदाहरणम् – गोपः गां पयः दोग्धि। वामनः बलिं वसुधां याचते विनीतः अविनीतं विनयं याचते। पाचकः तण्डुलान् ओदनं पचति। राजा गर्गान् शतं दण्डयति । गोपः व्रजं गाम् अवरुणद्धि। पथिकः माणवकं पन्थानं पृच्छति। बालकः वृक्ष फलानि अवचिनोति । गुरुः शिष्यं धर्मं ब्रूते। गुरुः शिष्यं धर्म शास्ति। देवदत्तः यज्ञदत्तं शतं जयति देवः क्षीरनिधि सुधां मध्नाति चौरः देवदत्तं शतं मुष्णाति । गोपः ग्रामम् अजां नयति। गोपः ग्रामम् अजां हरति । गोपः ग्रामम् अजां कृषति। गोपः ग्रामम् अजां वहति ।

6. अधोलिखितेषु कमपि एकं विषयमधिकृत्य परियोजना विवरणं लिखत।

(क) ‘कृत्यप्रकरणम्’ इति पाठस्य केषान्चित् पञ्च सुत्राणि व्याख्यायत ।

उत्तर- 1. धातोः ॥ (३.१.९१)

सूत्रार्थः – आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः ।

सूत्रव्याख्या- अधिकारसूत्रमिदम् एकपदात्मकम् । धातोः इति पञ्चम्येकवचनान्तम् । प्रत्ययः (१/१), परः (१/१) इति द्वयम् अधिकृतम्। धातोः इत्यस्य अधिकारः तृतीयाध्यायसमाप्तिम् यावत् । सूत्रस्याशयस्तावत् इतः आरभ्य तृतीयाध्यायस्य समाप्तिं यावत् ये प्रत्ययाः विहिताः ते धातोः पराः ‘भवन्ति । तेषु प्रत्ययेषु तिप्रत्ययाः कृत्प्रत्ययाः इति द्विविधाः प्रत्ययाः वर्तन्ते । तिङ्प्रत्ययभिन्नाः ये प्रत्ययाः वर्तन्ते तेषां कृदतिङ् इति सूत्रेण कृत् इति संज्ञा भवति । कृत्संज्ञायाः प्रयोजनम् कर्तरि कृत् इत्यादिसूत्रैः कृत्प्रत्ययानाम् अर्थनिर्देशः। किञ्च धातोः कृत्प्रत्यये विहिते सति कृदन्तसमुदायो जायते ।

2. वासरूपोऽ स्त्रियाम् ॥ (३.१.९४)

सूत्रार्थः अस्मिन् धात्वधिकारेऽसरूपोऽपवादप्रत्ययः उत्सर्गस्य बाधको वा स्यात् ख्यधिकारोक्तं विना ।

सूत्रव्याख्या – परिभाषासूत्रमिदम् पदत्रयात्मकम्। अनेन सूत्रेण उत्सर्गापवादप्रत्यययोः विकल्पेन प्रवृत्तिः नियम्यते वा (अव्ययम्) असरूपः (१/१) अस्त्रियाम् (७/१) इति सूत्रगतपदच्छेदः। समानं रूपं यस्य स सरूपः इति बहुव्रीहिसमासः, न सरूपः असरूपः इति नन्समासः। तत्रोपपदं सप्तमीस्थम् इति सूत्रात् तत्र इति अव्ययपदम् अनुवर्तत । तत्र इत्यनेन धातोः इति अधिकारसूत्रं परामृश्यते । तत्र धात्वधिकारे इत्यर्थः । न स्त्री अस्त्रीऽऽ इति नञ्तत्पुरुषसमासः। तस्याम् अस्त्रियाम्। लिङ्गवती परिभाषा इति परिभाषालक्षणम्। असरूपः इति लिङ्गनिर्देशः। यत्र असरूपप्रत्ययो विधास्यते तत्र वा इत्युपतिष्ठते ।

3. कृत्याः ॥ (३.१.९५)

सूत्रार्थः ण्डुल्तृचौ (३.१.१३३) इत्यतः प्राक् कृत्यसंज्ञाः स्युः ॥

सूत्रव्याख्याः अधिकारसूत्रमिदम् एकपदात्मकम्। अनेन सूत्रेण कृत्यसंज्ञा विधीयते । कृत्याः इति प्रथमाबहुवचनान्तम् । अग्ने ण्डुल्तृचौ (३.१.१३३) इति सूत्रात् पूर्वं ये प्रत्ययाः विधीयन्ते ते कृत्यसंज्ञाः अपि भवन्ति इति सूत्रार्थः । अत्र कृत्संज्ञकप्रत्ययानाम् कृत्यसंज्ञा भवति । एवम् अत्र प्रकरणे धातोः विहितस्य प्रत्यस्य द्विविधा संज्ञा भवति इत्यस्ति विशेषः। कृत्यसंज्ञायाः प्रयोजनम् तयोरेव कृत्यक्तखलर्थाः, कृत्यलुटो बहुलम् इत्यादिसूत्रेषु वक्ष्यते। कृत्संज्ञायाः प्रयोजनम् तु अग्रे उच्यमानम् अस्ति ।

4. कर्तरि कृत् ।। (३.४.६७)

सूत्रार्थः कृत्प्रत्ययः कर्तरि स्यात् ।

सूत्रव्याख्याः विधिसूत्रमिदम् पदद्वयात्मकम् । अनेन सूत्रेण कृत् प्रत्ययाः कर्तरि अर्थे विधीयन्ते। कर्तरि (७/१) कृत् (१/१) इति सूत्रगतपदानां विभक्तिनिर्देशः । प्रत्ययः (१/१), परः (१/१), धातोः (५/१) इति एतत्त्रयम् अधिकृतम्। धातोः पराः कृत्संज्ञकाः प्रत्ययाः कर्त्रर्थे भवन्ति इति सूत्रार्थः। यत्र विशिष्टः अर्थः न निर्दिष्टः तत्र कर्ता इत्यर्थे कृत्प्रत्ययाः प्रवर्तन्ते ।

5. तव्यत्तव्यानीयरः ॥ (३.१.९३)

सूत्रार्थः धातोः तव्यत्तव्यानीयरः प्रत्ययाः स्युः ।

सूत्रव्याख्याः विधिसूत्रमिदम् एकपदात्मकम् अनेन सूत्रेण तव्यत्तव्यानीयरः प्रत्ययाः विधीयन्ते। तव्यत्तव्यानीयरः इति प्रथमाबहुवचनान्तम् पदम् प्रत्ययः (१/१), परः (१/१), धातोः (५/१) इति त्रयम् अधिकृतम्। तव्यत् च तव्यश्च अनीयर् च तव्यत्तव्यानीयरः इति इतरेतरयोगद्वन्द्वः। सूत्रार्थस्तावत् धातोः परे तव्यत्तव्यानीयरः प्रत्ययाः स्युरिति । अनेन सूत्रेण विहिताः प्रत्ययाः कृत्संज्ञकाः कृत्यसंज्ञकाश्च भवन्ति ।

(ख) ‘पूर्वकृदन्तम्-१’ इति पाठस्य केषान्चित् पञ्च सुत्राणि व्याख्यायत ।

उत्तर- 1. ण्डुल्तृचौ ॥ (३.१.१३३)

सूत्रार्थः धातोः ण्वुल्तृचौ स्तः ।

सूत्रव्याख्याः विधिसूत्रमिदम् एकपदात्मकम् । अनेन सूत्रेण ण्वुल्तृचौ प्रत्ययौ विधीयेते । ण्डुल्तृचौ इति प्रथमाद्विवचनान्तम् । अस्मिन् सूत्रे प्रत्ययः (१/१), परः (१/१), धातोः (१५/१) इति त्रयम् अधिकृतम्। कृदतिङ्, कर्तरि कृत् इति उभयमपि सूत्रम् अधिकृतम्। तत्र प्रत्ययः इत्यस्य प्रत्ययौ (१/२), परः इत्यस्य परौ (१/२) इत्यनयोः द्विवचनान्ततया विपरिणामो भवति । ण्वुल् च तृच् च ण्वुल्तृचौ इति इतरेतरयोगद्वन्द्वसमासः । धातोः ण्वुल्तृचौ कृतौ प्रत्ययों परौं कर्तरि इति पदयोजना सूत्रार्थो भवति –

2. युवोरनाकौ ॥ (७.१.१)

सूत्रार्थः यु वु एतयोरनाकौ स्तः ।

सूत्रव्याख्याः विधिसूत्रमिदं पदद्वयात्मकमस्ति । अनेन सूत्रेण अनाको आदेशौ विधीयेते। युवोः (६/१) अनाकौ (१/२) इति सूत्रगतपदच्छेदः । युश्च वुश्च युवुः तस्य युवोः इति समाहारद्वन्द्वः (सौत्रं पुंस्त्वम्)। अनश्च अकश्च अनाको इति इतरेतरयोगद्वन्द्वः । अन अक इत्युभावपि अदन्तो आदेश । अत्र स्थान्यादेशयोः संख्यासाम्यात् यथासंख्यमनुदेशः समानाम् इति परिभाषा प्रवर्तते। सूत्रार्थस्तावत् यु इत्यस्य स्थाने अन इत्यादेशः वु इत्यस्य स्थाने अक इत्यादेशः च भवति इति ।

3. गेहे कः ॥ (३.१.१४४)

सूत्रार्थ: गेहे कर्तरि ग्रहेः कः स्यात् ।

सूत्रव्याख्याः– विधिसूत्रमिदम् पदद्वयात्मकमस्ति । अनेन सूत्रेण कप्रत्ययः विधीयते। गेहे (७/१) कः (१/१) इति सूत्रगतपदानां विभक्तिनिर्देशः। प्रत्ययः (१/१), परः (१/१), धातोः (५/१) इति त्रयम् अधिकृतम्। कृदतिङ् कर्तरि कृत् इति उभयमपि सूत्रम् अधिकृतम्। विभाषा ग्रहः इत्यतः ग्रहः (५/१) । इति पदमनुवर्तते। सूत्रार्थस्तावत् प्रधातोः कृत्संज्ञकः कप्रत्ययः परो भवति गेहे कर्तरि । अनेन सूत्रेण धातोः विहितः प्रत्ययः कृत्संज्ञकः भवति । स च कर्त्रर्थे विधीयते । –

उदाहरणम् गृहम्।

4. कर्मण्यण् ॥ (३.२.१)

सुत्रार्थः कर्मण्युपपदे धातोरण प्रत्ययः स्यात ।

सूत्रव्याख्याः विधिसूत्रमिदम् पदद्वयात्मकमस्ति । अनेन सूत्रेण अण्प्रत्ययः विधीयते। कर्मणि (७/१) अण् (१/१) इति सूत्रगतपदच्छेदः । प्रत्ययः (१/१), परः (१/१), धातोः (५/१) इति त्रयम् अधिकृतम्। कृदतिङ्, कर्तरि कृत् इति उभयमपि सूत्रम् अधिकृतम्। तत्रोपपदं सप्तमीस्थम् इति सूत्रानुसारं कर्मणि इति सप्तम्यन्तम् उपपदसंज्ञकम् सूत्रार्थो हि कर्मणि उपपदे धातोः कृत्संज्ञकः अण्प्रत्ययः परो भवति कर्तरि इति। अनेन सूत्रेण धातोः विहितः प्रत्ययः कृत्संज्ञकः भवति ।

5. आतोऽनुपसर्गे कः ॥ (३.२.३)

सूत्रार्थः- आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात् ।

सूत्रव्याख्याः विधिसूत्रमिदम् पदत्रयात्मकम्। अनेन सूत्रेण कप्रत्ययो विधीयते। अतः (५/१) अनुपसर्गे (७/१) कः (१/१) इति सूत्रगतपदच्छेदः । प्रत्ययः (१/१), परः (१/१), धातोः (७५/१) इति त्रयम् अधिकृतम्। कर्मण्यण् इत्यतः कर्मणि (७/१) इति पदमनुवर्तते। कृदतिङ् कर्तरि कृत् इति उभयमपि सूत्रम् अधिकृतम्। अविद्यमानः उपसर्गः यस्य असौ अनुपसर्गः तस्मिन् अनुपसर्गे इति बहुव्रीहिसमासः। अत्र पञ्चम्यर्थे सप्तमी। आतः इति धातोः इत्यस्य विशेषणमस्ति, अतः विशेषणत्वात् तदन्तविधौ आदन्तात् धातोः इत्यर्थो भवति ।