NIOS Class 12th Sanskrit (346): NIOS TMA Solution

NIOS Solved TMA 2024

निर्देशा

(i) सर्वे प्रश्नाः अनिवार्याः। प्रश्नानुसारम् बङ्काः समक्षे निर्देशिताः।

(ii) उत्तरपुस्तिकायाः प्रथमपृष्ठे स्वनाम, अनुक्रमांकसंख्या, शिक्षणकेन्द्रस्य नाम इति

सर्व लेखनीयम्।

1. कस्यचिवेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत-

(क) अधमा धनमिच्छन्ति कुरुत? महतां धनम्' इति श्लोकं प्रपूर्य अन्वयसहितं व्याख्यां

उत्तर-अन्वयः

अधमाः धनम् इच्छन्ति, मध्यमाः धनम् मानम् च इच्छन्ति, उत्तमाः मानम् इच्छन्ति। महताम् मानः हि धनम् (भवति)

व्याख्या

अधमाः धनमिच्छन्ति धनमानं च मध्यमाः ।

के धनम् इच्छन्ति? अधमाः ।

कथम्? अधमाः येन केन प्रकारेण केवलं धनं वा छन्ति। तेषां मते जीवनमूल्यानां किमपि महत्त्वं न वर्तते। ते तु केवलं धनम् इच्छन्ति ।

मध्यमाः किम् वा छन्ति? मध्यमाः धनं च मानं च उभे वा छन्ति । ते धनं तु वा छन्ति किन्तु उचितेन प्रकारेण परिश्रमेण एव।

(ख) 'जीवनसंदेश' इति पाठमाधिकृत्य कानिचित् जीवनमूल्यानि लिखत।

उत्तर-पूजितं ह्यशनं नित्यं बलमूर्ज च यच्छति। अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् अक्रोधेन जयेत् क्रोधमसाधुं साधुना जयेत् । जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम्। तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ।सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्।अधमा धनमिच्छन्ति धनमानं च मध्यमाः उत्तमाः मानमिच्छन्ति मानो हि महतां धनम् ।

 2. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत-

(क) अधोलिखितेषु पदेषु क्रियापदानि पृथक् कृत्वा लिखत-

करिणाम्, हन्ति, जानाति, कान्तेति, दूती, वद, निवेदय, कान्तः, पंडितः।

उत्तर-

(ख) 'बलं शिर:..... भवन्ति च' अस्य शलोकस्य अन्वयव्याख्या भावार्थं च लिखता

उत्तर-स्ति काचित् मधुरस्मृतिः बाल्यावस्थायाः, यदा शयनकाले भवतः पितामही / मातामही कथाः कथयति स्म, प्रश्नान् प्रहेलिकाः च पृच्छति स्म? नूनम् कथाभिः प्रश्नैः, प्रहेलिकाभिः च अस्माकं ज्ञानं वर्धते, बुद्धिः तीव्रा भवति, मनोरंजनम् अपि जायते। इमाः प्रहेलिकाः विश्वस्य सर्वासु भाषासु येन केन अपि रूपेण उपलभ्यन्ते । संस्कृतभाषायाः साहित्यम् अतिसमृद्धं वर्तते। संस्कृतसाहित्ये अनेकाः प्रहेलिकाः संकलिताः सन्ति । अस्मिन् पाठे वयं काश्चन प्रहेलिकाः प्रक्ष्यामः उत्तरं ज्ञातुं च प्रयत्नं कुर्मः

3. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्देषु लिखत-

(क) को वर्धते .. शश्वत् अस्य शलोकस्य अन्वयव्याख्या भावार्थ च लिखत। 

उत्तर-अन्वयः कः वर्धते? विनीतः, क वा हीयेत यः दृप्तः। कः च न प्रत्येतव्यः? यः च शश्वत् अनृतं ब्रूते ।

अस्मिन् पद्यांशे अपि त्रयः प्रश्नाः ।

भावार्थ:- अस्मिन् पद्ये नम्रतायाः वैशिष्ट्यं वर्णितम्। संसारे कः सदा उन्नतिं करोति, यः विनयशीलः विनम्रः भवति । कस्य च सदा क्षयः भवति ? निश्चयेन यः अभिमानी भवति सः

सदा नीचैः एव गच्छति, तस्य पतनं भवति। कस्य विश्वासः न कर्तव्यः इति प्रश्नस्य उत्तरे कथितम् यः सदा अनृतं मिथ्याप्रलापं करोति तस्मिन् विश्वासः न करणीयः ।

(ख) लोभाविष्टानां जनानां चारित्रिक लक्षणानि लिखत।

उत्तर-भवान वान् जानाति एव "लोभो मूलमनर्थानाम्। यद्यपि लोभवशात् जनाः कार्यशीलाः भवन्ति परंतु यदा अतिलोभः भवति तदा जनाः दुष्टानि कर्माणि कुर्वन्ति, चौर्य कुर्वन्ति, हत्यां कुर्वन्ति । अतिलोभस्य सीमा नास्ति। मृगतृष्णावत् अतिलोभः अधिकाधिक वर्धते । अन्ते मनुष्यः पूर्णतया नष्टः भवति। अस्याम् कथायाम् अपि वयम् एतादृशस्य एव मनुष्यस्य विषये पठामः यः अतिलोभवशात् लोभचक्रं मस्तके धारयित्वा रुधिरप्लावितः भवति अन्ते च नश्यति । अतः अतिलोभः विनाशकारकः ।

4. कस्यचिवेकस्य प्रश्नस्य उत्तरं 100-150 शब्देषु लिखत-

(क) अतिलोभः न कर्तव्यः इति पाठस्य सारं लिखत।

उत्तर-कस्मिंश्चित् ग्रामे चत्वारि मित्राणि अवसन् । दारिद्र्योपहताः ते अचिन्तयन् यत् धनहीनजीवनात् तु वनवासः एव वरम् । अतः देशान्तरं गच्छामः धनोपार्जनाय इति विचार्य ते चत्वारः बन्धुजनाः उज्जयिनीनगरीं प्राप्तवन्तः । तत्र एकः भैरवानन्दः नाम योगी निवसति स्म। ते तस्य मठम् अगच्छन्। योगी तान् अपृच्छत् "भवन्तः कुतः समायाताः? कुत्र गच्छन्ति? किं च प्रयोजनम्?" ते उक्तवन्तः वयं दारिद्र्द्यपीडिताः धनम् इच्छामः । अतिसाहसिकाः वयम्। कृपया अस्माकं मार्गदर्शनं कुर्वन्तु भवन्तः ।अथ पुनः अग्रे एकस्य हस्तात् वर्तिका अपतत् । सोऽपि प्रहर्षितः यावत् खनति तावत् सुवर्णमयीं भूमिं दृष्ट्वा विस्मयोत्फुल्ललोचनः उवाच भोः गृहयतां स्वेच्छया सुवर्णम्। किमतिलोभेन। अस्माकं कृते एतत् धनं पर्याप्तम्।"चत्वारि मित्राणि निर्धनाः आसन्। एकः योगी तेभ्यः सिद्धवर्त्तिकाः अयच्छत् । अकथयत् च वर्तिकायाः पतनस्थाने धनं भविष्यति । यदा प्रथमा वर्त्तिका अपतत् तत्र ताम्रमयी भूमिः आसीत्। तेषु एकः ताम्र गृहीत्वा सन्तुष्टः भूत्वा गृहं प्रति अगच्छत् ।प्रथमः जनः ताम्रम् आदाय गच्छति। अवशिष्टेषु द्वितीयः जनः रजतम् आप्नोति, सः अपि तत् आदाय गच्छति। एवं तृतीयः स्वर्णम् आदाय प्रतिनिवर्तते। परन्तु चतुर्थः तदापि न सन्तुष्टः। सः अग्रे गच्छति। सः एकं चक्रधरं जनं पश्यति। तं च जलविषये पृच्छति। तस्मिन्नेव क्षणे चक्रम् अवतीर्य तस्य मस्तकम् आरोहति । यः अतिलोभम् करोति तस्य मस्तके चक्रम् एव भ्रमति। वस्तुतः अति लोभात् विनाशः भवति।

(ख) श्रीपादशिला' विषये टिप्पणी लिखत।

उत्तर- श्री एकनाथ रानाडे महाभागः 1970 तमे वर्षे महता प्रयत्नेन विवेकानन्दशिलास्मारकस्य निर्माणम् अकारयत्। स्मारकस्य मध्ये विवेकानन्दस्य रम्या प्रतिमा दृष्टिगोचरा भवति। अत्र विशिष्टं ध्यानमन्दिरम् अस्ति। स्मारकस्य अन्धकारमये प्रकोष्ठे पुरतः 'ऊँ' इत्यस्य चित्रं दृश्यते । अत्र सर्वे मौनं तिष्ठन्ति । शिलास्मारकस्य विशाले परिसरे देशविदेशेभ्यः पर्यटकाः आगत्य अस्य सुन्दरतां पश्यन्ति साधनां च कुर्वन्ति । ध्यानयोगादिमाध्यमेन चिकित्सामपि प्राप्नुवन्ति। स्मारकस्य पार्श्व एव तिरुवल्लुवर कवेः प्रतिमा अपि विराजते। अयं 'तिरुक्कुरल' इति नामकस्य ग्रन्थस्य प्रणेता।

एतस्य भवनस्य पुरतः अस्ति श्रीपादशिला। भगवती कन्याकुमारी तत्रैव एकपादेन स्थित्वा तपः आचरितवती। तत्र शिलायां दक्षिणपादस्य चिह्नं स्पष्टतया दृश्यते। अतएव सा शिला श्रीपादशिला इति प्रसिद्धा जाता।

5. कस्यचिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्देषु लिखत-

(क) कन्याकुमारी स्वलस्य महत्त्वं वर्णयत।

उत्तर-कन्याकुमारीविषये नानाविधाः कथाः श्रूयन्ते । प्रजापतेः पुत्रः बाणासुरः शिवात् वरं प्राप्य मदोन्मत्तः जातः । सः विविधान् अत्याचारान् कृत्वा जनान् पीडयति स्म। जनाः देवं विष्णुं प्रार्थितवन्तः । देवः अवदत् - अस्य वधः पराशक्त्या कुमार्या करिष्यते। तपः कृत्वा पराशक्तिः बाणासुरस्य वधम् अस्मिन् एव क्षेत्रे अकरोत्। मरणसमये बाणासुरः देव्यै निवेदितवान् "देवि ! क्षमां कुरु । मह्यं सद्गतिं प्रददातु भवती। इदं स्थलं तीर्थ भवेत्। अत्र ये स्नास्यन्ति ते गङ्गास्नानफलं प्राप्नुयुः इति।" देवी 'तथैवास्तु' इति उक्त्वा तम् अनुगृहीतवती । बाणतीर्थनामके अस्मिन् स्थाने स्नानं महत् पुण्यदायकम् इति मन्यते। श्रूयते यत् कुमार्या कन्यया सः असुरः हतः इति एतत् क्षेत्रं कन्याकुमारी इति नाम्ना प्रसिद्धं जातम् ।

अपरा च कथा एवं श्रूयते यत् पूर्व भरतः नाम नृपः आसीत्। तस्य अष्ट पुत्राः एका पुत्री च आसीत्। भरतः स्वदेशं नवधा विभज्य दत्तवान्। दक्षिणदेशः कुमारीनाम्न्यै पुत्र्यै दत्तः । अतः सः देशः कुमारीक्षेत्रम् इत्येव प्रसिद्धः अभवत् ।

अस्मिन् स्थाने एक मन्दिरम् अस्ति। तत्र देवी जपमालां गृहीत्वा तपः आचरन्ती इव दृश्यते। विजयादशमीदिने तु बाणासुरस्य वधार्थमेव प्रस्थितायाः धनुर्बाणादिभूषितायाः देव्याः कन्याकुमार्याः शोभायात्रा भवति। नवरात्रदिनेषु मन्दिरे विशेषपूजाः प्रचलन्ति । विशाखानक्षत्रे जलयात्रा-उत्सवः आयोज्यते । एतेषु सर्वेषु उत्सवेषु असंख्याः भक्ताः तत्र सम्मिलन्ति ।

(ख) सरस्वत्याः धरणीतले अवतरणस्य कचायाः सारं लिखत।

उत्तर-पुरा भगवान् ब्रह्मा देवैः परिवृतः विद्यागोष्ठीः भावयन् उपाविशत। गोष्ठ्यां वेदमन्त्राणां पाठः अभवत्। विद्यायाः विभिन्नेषु विषयेषु वादविवादः प्राचलत् । एकस्मिन् विषये क्रोधयुक्तः दुर्वासाः ऋषिः केन अपि मुनिना सह कलहायमानः साम गायने स्वरभङ्गम् अकरोत् । तत् श्रुत्वा भगवती सरस्वती अहसत्। अपमानम् अनुभूय दुर्वासाः सरस्वतीं शप्तुं जलं हस्ते अगृहणात्।अस्मिन् अवसरे देवी सावित्री अपि ब्रह्मणः समीपे समुपविष्टा आसीत्। सा दुर्वाससम् अवदत् यत् सः क्रोधी, आत्मापराधम् अगण्य्य सर्वैः वन्दनीयां त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुम् इच्छति। देवैः शिष्यैः च प्रसाद्यमानोऽपि पित्रा अत्रिणा च निवार्यमाणः अपि सः सरस्वत्याः विद्याजनितगर्व दूरीकर्तुं "गच्छ अधः मर्त्यलोकम्" इति कथयित्वा शापजलं विसर्जितवान् । प्रतिशापं दातुम् उद्यताम् सावित्रीं सरस्वती न्यवारयत्।पितामहः सरस्वतीं शप्तां दृष्ट्वा शापकलकलं दूरीकृत्य गंभीरस्वरेण अकथयत् दुर्वासमुनेः मार्गः उचितः नास्ति। यः जितेन्द्रियः न भवति तस्य विवेकः नश्यति। मुनिना तु क्षमा कर्त्तव्या यतोहि क्षमा हि मूल सर्वतपसाम्। ऋषेः दुर्वाससः दृष्टिः तु परदोषदर्शनदक्षा अस्ति। क्रोधेन अभिभूता बुद्धिः आत्मनः दोषं न पश्यति। अतिरोषेण जनः अन्धः भवति। क्रोधे विद्यमाने सति किमर्थ सः निरपराधसरस्वतीं शापेन निगृहीतवान्। तदनन्तरं ब्रह्मा सरस्वतीम् अकथयत् यत् सा विषादं न कुर्यात्। सावित्री तया सह मर्त्यलोकं गमिष्यति । पुत्रस्य मुखदर्शनपर्यन्तम् शापस्य अवधिः भविष्यति।

6. अधोलिखितेषु कमपि एकं विषयमधिकृत्य परियोजना-विवरणं लिखत।

(क)'अतिलोभः न कर्तव्यः, राजते खलु कन्याकुमारी' च पाठद्वयं अधिकृत्य व्याकरणपदानि चित्वा तालिका निर्माणं कुर्वन्तु।

उत्तर-

(ख) प्राचीनसाहित्ये वेदानां वेदांगानां च नामानि लिखित्वा वैदिकवांगमय विषये विस्तरेण वर्णयत।

उत्तर-सुश्रुत संहिता- आयुर्वेदे शल्यचिकित्सा विषयकः, प्रसिद्धः ग्रन्थः । अस्य लेखकः महर्षि सुश्रुतः अस्ति।

चरक संहिता- रोगनिदानं चिकित्साविधेः च प्रमुखः ग्रन्थः । अस्य प्रणेता महर्षिः चरकः अष्टाङ्गहृदयम्, भावप्रकाशः आदयः अपि आयुर्वेदस्य ग्रन्थाः।

सुश्रुतः- भारतस्य प्रसिद्धः प्राचीनतमः शल्यचिकित्सकः ।

जीवकः- एकः प्रसिद्धः शल्यचिकित्सकः। एषः एव भोजराजस्य मस्तिष्कस्य शल्यक्रियाम् अकरोत् ।

वेदाः- वेदाः चत्वारः, ऋक्, यजुः, साम, अथर्व च। उपवेदाः अपि चत्वारः आयुर्वेदः, धनुर्वेदः गान्धर्ववेदः, स्थापत्यवेदः, अर्थवेदः ।

वेदाङ्गानि षट् सन्ति शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः, ज्यौतिषम् च । पुराणानि-अग्नि, वायु, शिव, भागवत्, स्कन्द, गरुड़, कूर्म, नारद, मार्कण्डेय, ब्रह्म, - पद्म-विष्णु-भविष्यत्, बराह, ब्रह्मवैवर्त, लिङ्ग, वामन, मत्स्य-अष्टादश पुराणानि सन्ति।